सनातन हिन्दू धर्म/दर्शन




🕉️श्री गणेश मंगलाष्टकम् 🕉️

गजाननाय गांगेय सहजाय सदात्मने !
गौरी प्रियतनूजाय गणेशायास्तु मंगलम् !!१!!नागयज्ञोपवीताय नतविध्न विनाशिने !
नन्द्यादिगणनाथाय नायाकायास्तु मंगलम् !!२!!
इभवक्त्राय चंद्रादिवन्दिताय चिदात्मने !
ईशान प्रेमपात्राय चेष्टादायास्तु मंगलम् !!३!!
सुमुखाय सुशुन्डाग्रोक्षिप्तामृत घटाय च !
सुखरींदनिवे व्यय सुखदायास्तु मंगलम् !!४!!
चतुर्भुजाय चन्द्राय विलसन्मस्तकाय च !
चरणावनतानन्ततारणायास्तु मंगलम् !!५!!
वक्रतुण्डाय वटवे वन्धाय वरदाय च !
विरूपाक्षसुतायास्तु विघ्ननाशाय मंगलम् !!६!!
प्रमोदामोदरूपाय सिद्धिविज्ञानरुपिणे !
प्रकृष्टपापनाशाय फलदायास्तु मंगलम् !!७!!
मंगलं गणनाथाय मंगलं हरसूनवे !
मंगलं विघ्नराजाय विघ्न हत्रेंस्तु मंगलम् !!८!!
श्लोकाष्टकमि पुण्यं मंगलप्रदमादरात !
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये !!९!!
 श्री गणपति मंगलाष्टकम् !!


🕉️श्रीसूक्तम् 🕉️
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥
तांमआवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥
अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मादेवी जुषताम्॥३॥
कांसोस्मितां हिरण्यप्राकारां आद्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम्॥४॥
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियंलोके देव जुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तववृक्षोथ बिल्व:।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मी:॥६॥
उपैतु मां देवसख: कीर्तिश्चमणिना सह।
प्रादुर्भुतो सुराष्ट्रेऽस्मिन् कीर्तिमृध्दिं ददातु मे॥७॥
क्षुत्पपासामलां जेष्ठां अलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृध्दिं च सर्वानिर्णुद मे गृहात॥८॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरिं सर्वभूतानां तामिहोपह्वये श्रियम्॥९॥
मनस: काममाकूतिं वाच: सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्री: श्रेयतां यश:॥१०॥

कर्दमेनप्रजाभूता मयिसंभवकर्दम।
श्रियं वासयमेकुले मातरं पद्ममालिनीम्॥११॥
आप स्रजन्तु सिग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥
आर्द्रां पुष्करिणीं पुष्टि पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥
आर्द्रां य: करिणीं यष्टीं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मी जातवेदो म आवह॥१४॥
तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योश्वान् विन्देयं पुरुषानहम्॥१५॥

य: शुचि: प्रयतोभूत्वा जुहुयाादाज्यमन्वहम्।
सूक्तं पञ्चदशर्च च श्रीकाम: सततं जपेत्॥१६॥
पद्मानने पद्मउरू पद्माक्षि पद्मसंभवे।
तन्मे भजसि पद्मक्षि येन सौख्यं लभाम्यहम्॥१७॥
अश्वदायै गोदायै धनदायै महाधने।
धनं मे लभतां देवि सर्वकामांश्च देहि मे॥१८॥
पद्मानने पद्मविपत्रे पद्मप्रिये पद्मदलायताक्षि।
विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मं मयि संनिधस्त्वं॥१९॥
पुत्रपौत्रं धनंधान्यं हस्ताश्वादिगवेरथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु मे॥२०॥

धनमग्निर्धनं वायुर्धनं सूर्योधनं वसु।
धनमिन्द्रो बृहस्पतिर्वरूणं धनमस्तु मे॥२१॥
वैनतेय सोमं पिब सोमं पिबतु वृतहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिन:॥२२॥
न क्रोधो न च मात्सर्य न लोभो नाशुभामति:।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्॥२३॥
सरसिजनिलये सरोजहस्ते धवलतरांसुकगन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीदमह्यम्॥२४॥
विष्णुपत्नीं क्षमां देवी माधवी माधवप्रियाम्।
लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥२५॥
महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि।
तन्नो लक्ष्मी: प्रचोदयात्॥२६॥
श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते।
धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायु:॥२७॥
ॐ शान्तिः शान्तिः शान्तिः 

🕉️ श्री शालग्राम स्तोत्र 🕉️
अस्य श्रीशालग्रामस्तोत्रमन्त्रस्य श्रीभगवान् ऋषिः नारायणो देवता, अनुष्टुप् छन्दः श्रीशालग्रामस्तोत्रमन्त्रजपे विनियोगः ॥

युधिष्ठिर उवाच :-
श्रीदेवदेव देवेश देवतार्चनमुत्तमम् ।
तत्सर्वं श्रोतुमिच्छामि ब्रूहि मे पुरुषोत्तम ॥१॥

श्रीभगवानुवाच :-
गण्डक्यां चोत्तरे तीरे गिरिराजस्य दक्षिणे ।
दशयोजनविस्तीर्णा महाक्षेत्रवसुन्धरा ॥२॥

शालग्रामो भवेद्देवो देवी द्वारावती भवेत् ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥३॥
शालग्रामशिला यत्र यत्र द्वारावती शिला ।
उभयोः सङ्गमो यत्र मुक्तिस्तत्र न संशयः ॥४॥
आजन्मकृतपापानां प्रायश्चित्तं य इच्छति ।
शालग्रामशिलावारि पापहारि नमोऽस्तु ते ॥५॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
विष्णोः पादोदकं पीत्वा शिरसा धारयाम्यहम् ॥६॥
शङ्खमध्ये स्थितं तोयं भ्रामितं केशवोपरि ।
अङ्गलग्नं मनुष्याणां ब्रह्महत्यादिकं दहेत् ॥७॥
स्नानोदकं पिवेन्नित्यं चक्राङ्कितशिलोद्भवम् ।
प्रक्षाल्य शुद्धं तत्तोयं ब्रह्महत्यां व्यपोहति ॥८॥
अग्निष्टोमसहस्राणि वाजपेयशतानि च ।
सम्यक् फलमवाप्नोति विष्णोर्नैवेद्यभक्षणात् ॥९॥

नैवेद्ययुक्तां तुलसीं च मिश्रितां विशेषतः पादजलेन विष्णोः ।
योऽश्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥१०॥

खण्डिताः स्फुटिता भिन्ना वह्निदग्धास्तथैव च ।
शालग्रामशिला यत्र तत्र दोषो न विद्यते ॥११॥
न मन्त्रः पूजनं नैव न तीर्थं न च भावना ।
न स्तुतिर्नोपचारश्च शालग्रामशिलार्चने ॥१२॥
ब्रह्महत्यादिकं पापं मनोवाक्कायसम्भवम् ।
शीघ्रं नश्यति तत्सर्वं शालग्रामशिलार्चनात् ॥१३॥
नानावर्णमयं चैव नानाभोगेन वेष्टितम् ।
तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१४॥
नारायणोद्भवो देवश्चक्रमध्ये च कर्मणा ।
तथा वरप्रसादेन लक्ष्मीकान्तं वदाम्यहम् ॥१५॥
कृष्णे शिलातले यत्र सूक्ष्मं चक्रं च दृश्यते ।
सौभाग्यं सन्ततिं धत्ते सर्व सौख्यं ददाति च ॥१६॥
वासुदेवस्य चिह्नानि दृष्ट्वा पापैः प्रमुच्यते ।
श्रीधरः सुकरे वामे हरिद्वर्णस्तु दृश्यते ॥१७॥
वराहरूपिणं देवं कूर्माङ्गैरपि चिह्नितम् ।
गोपदं तत्र दृश्येत वाराहं वामनं तथा ॥१८॥
पीतवर्णं तु देवानां रक्तवर्णं भयावहम् ।
नारसिंहो भवेद्देवो मोक्षदं च प्रकीर्तितम् ॥१९॥

शङ्खचक्रगदाकूर्माः शङ्खो यत्र प्रदृश्यते ।
शङ्खवर्णस्य देवानां वामे देवस्य लक्षणम् ॥२०॥
दामोदरं तथा स्थूलं मध्ये चक्रं प्रतिष्ठितम् ।
पूर्णद्वारेण सङ्कीर्णा पीतरेखा च दृश्यते ॥२१॥

छत्राकारे भवेद्राज्यं वर्तुले च महाश्रियः ।
चिपिटे च महादुःखं शूलाग्रे तु रणं ध्रुवम् ॥२२॥
ललाटे शेषभोगस्तु शिरोपरि सुकाञ्चनम् ।
चक्रकाञ्चनवर्णानां वामदेवस्य लक्षणम् ॥२३॥
वामपार्श्वे च वै चक्रे कृष्णवर्णस्तु पिङ्गलम् ।
लक्ष्मीनृसिंहदेवानां पृथग्वर्णस्तु दृश्यते ॥२४॥
लम्बोष्ठे च दरिद्रं स्यात्पिङ्गले हानिरेव च ।
लग्नचक्रे भवेद्याधिर्विदारे मरणं ध्रुवम् ॥२५॥
पादोदकं च निर्माल्यं मस्तके धारयेत्सदा ।
विष्णोर्द्दष्टं भक्षितव्यं तुलसीदलमिश्रितम् ॥२६॥

कल्पकोटिसहस्राणि वैकुण्ठे वसते सदा ।
शालग्रामशिलाबिन्दुर्हत्याकोटिविनाशनः ॥२७॥
तस्मात्सम्पूजयेद्ध्यात्वा पूजितं चापि सर्वदा ।
शालग्रामशिलास्तोत्रं यः पठेच्च द्विजोत्तमः ॥२८॥
स गच्छेत्परमं स्थानं यत्र लोकेश्वरो हरिः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥२९॥
दशावतारो देवानां पृथग्वर्णस्तु दृश्यते ।
ईप्सितं लभते राज्यं विष्णुपूजामनुक्रमात् ॥३०॥
कोट्यो हि ब्रह्महत्यानामगम्यागम्यकोटयः ।
ताः सर्वा नाशमायान्ति विष्णुनैवेद्यभक्षणात् ॥३१॥
विष्णोः पादोदकं पीत्वा कोटिजन्माघनाशनम् ।
तस्मादष्टगुणं पापं भूमौ बिन्दुनिपातनात् ॥३२॥

१- आवाहनम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षःसहस्रपात्। स भूमि œ सर्वतस्पृत्वा अत्यतिष्ठद्दशांगुलम्॥
२- आसनम् ॐ पुरुषऽ एवेद œ सर्वं यद्भूतं यच्च भाव्यम्। उतामृतत्वस्येशानो यदन्नेनातिरोहति॥
३- पाद्यम् ॐ एतावानस्य महिमातोज्यायाँश्च पूरुषः।
पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि॥
४- अर्घ्यम् ॐ त्रिपादूर्ध्व ऽ उदैत्पुरुषः पादोऽस्येहाभवत्पुनः। ततो विष्वङ्व्यक्रामत्साशनानशने अभि॥
५- आचमनम् ॐ ततो विराडजायतव्विराजो अधिपूरुषः। स जातो अत्यरिच्यतपश्चाद्भूमिमथो पुरः॥
६ - स्नानम् ॐ तस्माद्यज्ञात्सर्वहुतःसम्भृतं पृषदाज्यम्।
पशूँस्ताँश्चक्रे वायव्यान्आरण्या ग्राम्याश्च ये।
७- वस्त्रम् ॐ तस्माद्यज्ञात्सर्वहुतऽऋचः सामानिजज्ञिरे।
छन्दा œ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥
८- यज्ञोपवीतम् ॐ तस्मादश्वा ऽ अजायन्त ये के चोभयादतः। गावो ह जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः॥
९- गन्धम् ॐ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः।
तेन देवाऽअयजन्तसाध्याऽऋषयश्च ये॥
१०- पुष्पाणि ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।
मुखं किमस्यासीत्किं बाहू किमूरू पादा उच्येते॥
११- धूपम् ॐ ब्राह्मणोऽ स्यमुखमासीद् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्याœ शूद्रो अजायत॥
१२- दीपम् ॐ चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत। श्रोताद्वायुश्च प्राणश्चमुखादग्निरजायत॥
१३- नैवेद्यम् ॐ नाभ्याऽ आसीदन्तरिक्ष œ शीर्ष्णो द्यौः समवर्त्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ अकल्पयन्।
१४- ताम्बूलपूगीफलानि ॐ यत्पुरुषेण हविषादेवा यज्ञमतन्वत। वसन्तोऽस्यासीदाज्यं ग्रीष्म ऽ इध्मःशरद्धविः।
१५- दक्षिणा ॐ सप्तास्यासन्परिधयः त्रिः सप्त समिधः कृताः। देवा यद्यज्ञं तन्वानाऽ अबध्नन् पुरुषं पशुम्।
१६- मन्त्र पुष्पाञ्जलिः ॐ यज्ञेन यज्ञमयजन्त देवाः तानिधर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥


🕉️ रुद्रसूक्त 🕉️ 

ॐ नमस्ते रुद्रमन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः॥१॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी। तया नस्तन्वा शन्तमया गिरिशन्ताभि चाकशीहि ॥२॥ यामिषुं गिरिशन्त हस्ते बिभर्यस्तवे। शिवां गिरित्र तां कुरु मा हि सी: पुरुषं जगत् ॥३॥शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्म सुमना असत्॥४॥ अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अर्हीश्च सर्वाञ्जम्भयन्त्सर्वाश्चयातुधान्योऽधराचीः परा सुव॥५॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः। ये चैन रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषा हेड ईमहे॥६॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः। उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे। अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः॥८॥ प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्। याश्च ते हस्त इषवः परा ता भगवो वप॥९॥ विज्यंधनुः कपर्दिनो विशल्यो बाणवाँ२ उत।अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः। तयाऽस्मान्विश्वतस्त्वमयमया परि भुज॥११॥ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः। अथो य इषुधिस्तवारे अस्मन्नि धेहि तम्॥१२॥ अवतत्य धनुष्ट्व सहस्राक्ष शतेषुधे। निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥१३॥ नमस्तs आयुधायानातताय धृष्णवे। उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम्। मा नो वधी: पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥ मा नस्तोके तनये मा नsआयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। मा नो वीरान्रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥१६

🕉️ नवग्रहमङ्गलाष्टकम् 🔱
भास्वान् काश्यपगोत्रजोऽरुणरुचिः सिंहाधिपोऽर्कः समित्
 षट्त्रिस्थो दशमः शुभो गुरुशशी क्षोणीज मित्रं सदा ।
शुक्रार्कीतु रिपू कलिङ्गविषयेशोऽग्नीश्वरौ देवते
मध्ये वर्तुल पूर्व दिङ्मुख इनः कुर्यात् सदा मङ्गलम् ॥ १॥

चन्द्रः कर्कट राशिपः सितरुचिः स्वच्छोत्रि गोत्रोद्भवो
वह्नयाशा चतुरस्र वारुणमुखस्त्वापःशिवा देवते ।
षट्सप्ताग्नि दशाद्यगः शुभफलो नारिर्बुधार्क प्रियः
स्यातां यामुनदेश पर्णसमिधः कुर्यात् सदा मङ्गलम् ॥ २॥

भौमो याम्य मुखस्त्रिकोणनिलयोऽवन्तीश्वरः खादिरः
 त्विध्मोवृश्चिक मेषपोऽस्य सुहृदः सूर्येन्दुजीवाः स्मृताः ।
ज्ञोऽरिः षट् त्रिणगः शुभोथ वसुधा स्कन्दौ क्रमात् देवते
भारद्वाज कुलोद्भवः क्षितिसुतः कुर्यात् सदा मङ्गलम् ॥ ३॥

सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रि गोत्रोद्भवो
बाणेशानदिशौ हितो रवि सितौ शत्रुः स्मृतः शीतगुः ।
कन्यायुग्मपतिर्दशाष्टमचतुः षण्नेत्रगः शोभनो
देवौ केशवपूरुषौ मग धपः कुर्यात् सदा मङ्गलम् ॥ ४॥
जीवत्वाङ्गिरसः कुबेर वदनो दीर्घाब्धि कोणे स्थितः
 पीतोश्वत्थ समिच्च सिन्धुविषयः शक्रोविधिर्देवते ।
सूर्येन्दु क्षितिजप्रियो बुधसितौशत्रू धनुर्मीनपः
सप्ताङ्कद्विसुते हितः सुरगुरुः कुर्यात् सदा मङ्गलम् ॥ ५॥
शुक्रोभार्गव गोत्रजः सितनिभः पूर्वामुखः पञ्चको-
     णस्थोऽस्थो तुल गोपतिः खलु महाराष्ट्रेश औदुम्बरी ।
इन्द्राणी मघवासुरौ बुधशनिमित्रे रवीन्दू अरी
     षट्सप्ताभ्र कुवर्जिते शुभफलः कुर्यात् सदा मङ्गलम् ॥ ६॥
मन्दः पाशिमुखः शमीसमिदथो सौराष्ट्रपः काश्यपो
     नक्रादि द्वयपो हितो बुधसितौ सूर्येन्दुभौमाः पराः ।
स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुष्यासनः
     षट्त्रिस्थः शुभकृत् शमी रविसुतः कुर्यात् सदा मङ्गलम् ॥ ७॥
राहुर्बर्बर देशपः तिमिरभो नैरृत्य शूर्पासनो
     यः पैठीनसि गोत्रजः खलु समिद्दूर्वामुखं दक्षिणे ।
कालः प्रत्यधिदेवतास्त्वधिसुरः सोऽरि चन्द्र स्थितः
     षट्त्रिस्थः शुभदोऽर्धकाय उदितः कुर्यात् सदा मङ्गलम् ॥ ८॥
केतुजैमिनि गोत्रजः कुशसमित् वायव्य कोणेस्थितः
     चित्राङ्क ध्वजलाञ्छनो हि भगवन् यो दक्षिणाशा मुखः ।
ब्रह्मादि त्रिदशालयः सुरपतिः सच्चित्रगुप्तः खगः
     षट्त्रिस्थश्च शुभः पलाश सदृशः कुर्यात् सदा मङ्गलम् ॥ ९॥
इत्येवं ग्रहमङ्गलाष्टकमिदं लोकोपकारप्रदम्
     पापौघ प्रशमं महत् सुखकरं सौभाग्य संवर्धनम् ।
यः प्रातः श‍ृणुयात् पठेदनुदिनं श्रीकालिदासोचितम्
     स्तोत्रं मङ्गलदायकं परिपठन् प्राप्नोत्यभीष्टं महत् ॥ १०॥
श्रीकालिदासोचितं नवग्रहमङ्गलस्तोत्रं सम्पूर्णम् ।


🕉️ ष्टयोगिनी महादशा एवं स्तोत्रम् 🕉️

।। अथ मङ्गलामहादशा फलम् ।।
सद्धर्मे द्विजदेवगोपुरजनोत्कर्षप्रदात्री नृणां ।
नानाभोगयशोऽर्थसन्नृपपराश्वेभाङ्गजाप्तिप्रदाः ।।
सन्माङ्गल्यविभूषणाम्बरचयस्त्रीभोगसन्दायिनी ।
ज्ञानानन्दकरी दशा भवति सा ज्ञेया सदा मङ्गला ।।१।।

।। अथपिङ्गलामहादशा फलम् ।।
स्यात्पुंसां यदि पिङ्गला प्रसवतो हृद्रोगशोकप्रदा ।
नानारोगकुसङ्गदेहमनसो व्याध्यर्दितार्तिप्रदा ।
तृष्णासृग्ज्वरपित्तशूलमलिनस्त्रीपुत्रभृत्याप्तसन् ।
मानध्वंशकरी धनव्ययकरी सत्प्रेमहन्त्री खला ॥२।।

।। अथ धान्यामहादशा फलम् ।।
धान्या धन्यतमा धनागमसुखव्यापारभोगप्रदा ।
पुंसां मानविवृद्धिदा रिपुगणप्रध्वंसिनी साैख्यदा ।
विद्याराजजनप्रबोधसुरतज्ञानाङ्कुरान्वर्द्धिनी ।
सत्तीर्थामरसिद्धसेवनरतिर्लभ्या दशा भाग्यतः ॥३।।


।। अथ भ्रामरीमहादशा फलम् ।।
दुर्गारण्यमहीधरोपगहनारामातपव्याकुला ।
दूराद्दूरतरं भ्रमन्ति मृगवत्तृष्णाकुलाः सर्वतः ।
भूपालान्वयजा दशामधिगता ये वै नृपा भ्रामरीं ।
स्वं राज्यं प्रविहाय ते स्फुटतरं क्ष्माधो लुठन्ते मुहुः।।४।।

।। अथ भद्रिकामहादशा फलम् ।।
साैहार्दं निजवर्गभूसुरसुरेशानां सुहृन्मान्यता ।
माङ्गल्यं गृहमण्डलेऽखिलसुखव्यापारसक्तं मनः ।
राज्यं चित्रकपोलपालितिलकालिप्ताङ्गनाभिः समम् ।
क्रीडामोदभरो दशा भवति चेत् पुंसां हि भद्राभिधा ॥५।।


।। अथ उल्कामहादशा फलम् ।।
उल्का चेद्यदि योगिनी गुरुदशा मानार्थगोवाहन ।
व्यापाराम्बरहारिणी नृपजनक्लेशप्रदा नित्यशः ।
भृत्यापत्यकलत्रवैरजननी रम्यापहन्त्री नृणां ।
हृन्नेत्रोदरकर्णदन्तपदजो रोगः स्वदेहे भृशम् ॥६।।


।। अथ सिद्धामहादशा फलम् ।।
सिद्धा सिद्धिकरी सुभोगजननी मानार्थ सन्दायिनी ।
विद्याराजजनप्रतापधनसद्धर्माप्तसज्ज्ञानदा ।
व्यापाराम्बरभूषणादिकसुतोद्वाहादिमाङ्गल्यदा ।
सत्सङ्गान्नृपदत्तराज्यविभवो लभ्या दशा पुण्यतः।।७।।


।। अथ संकटामहादशा फलम् ।।
राज्यभ्रंशाग्निदाहो गृहपुरनगरग्रामगोष्ठेषु पुंसां ।
तृष्णारोगाङ्गधातुक्षयविकृतिरथो पुत्रकान्तावियोगः ।
चेत्स्यान्मोहोऽरिभीतिः कृशतनुलतिकासङ्कटायाःविरोधो ।
मनोमृत्युर्जन्मकालाद्यमपि हि विना सङ्कटां योगिनीजम् ॥८।।


।। अथ मंगला फलम् ।।
वैरिणां च विपदां च विनाशं ।
कृद्वाहनानी वसुरत्न लाभदा: ।।
कामिनी सुत गृहादि सौख्यदा ।
मंगला सकल मंगलोऽदय ।।१।।


।। अथ पिंगला फलम् ।।
दु:ख शोक कुलरोग बृद्धिदा ।
व्यग्रता कलह कृत स्वजनैश्च ।।
अन्त्यभाग कथिता फलदासौ ।
पिङ्गला च विदुसी सुख दासौ ।।२।।


।। अथ धान्या फलम् ।।
धनं धान्य वृद्धिं धरानाथ मान्यम् ।
सदा युद्धभूमौ जयं धैर्यवन्तम् ।।
कलत्राङ्ग नाना सुखं चित्र वस्त्रै: ।
युतम् धान्यका धातु वृद्धिं करोति ।।३।।


।। अथ भ्रामरी फलम् ।।
विदेशे भ्रमं हानी मुद्वेगता च ।
कलत्राङ्ग पीडा सुखं वर्जिताञ्च ।
ऋणं व्याधि वृद्धिं तथा भूपकोपम् ।
दशा भ्रामरी भोग भंग करोति ।।४।।


।। अथ भाद्रिका फलम ।।
धनानां प्रवृद्धिं गुणानां प्रकाश ।
समाधिन वस्त्रा गणंराज्यमानम् ।।
अलंकार दिव्याङ्गना भोग सौख्यम् ।
दशा भाद्रिका भद्रकार्यं करोति ।।५।।


।। अथ उल्का फलम् ।।
भ्रमं व्याधिकोपं ज्वराणां प्रकष्टम् ।
धनादिश्च दारादिकानां वियोगं ।
स्वगोत्रे विवादं सुहृद्वन्धु वैरं ।
दशाउल्कयाऽनर्थकारी सदैव ।।६।।


।। अथ सिद्धा फलम् ।।
राज्ञोभि मान्यं स्वजनादि सौख्यम् ।
धान्यादि लाभं गुणकीर्ति वृद्धिम् ।।
रामादिलाभं सुत वृद्धि सौख्यम् ।
विद्धाश्च सिद्धा प्रकरोति पुँसाम् ।।७।।


।। अथ संकटा फलम् ।।
जनानं विवादं ज्वराणां प्रकोपम् ।
कलत्रादि कष्टं पशुनां विनाशम् ।।
गृहे स्वल्पवासं प्रवाषाऽभिलासम् ।
दशा संकटा शंकटं राजपक्षात् ।।८।।


।। अथ मंगलास्तोत्रम् ।।

श्रीपार्वत्युवाच
देवदेव महादेव सृष्टिस्थित्यान्तकारक ।
मङ्गलायाश्चन्द्रमातु: स्तवनं ब्रूहि शंकर ।। १ ।।
श्रीशिव उवाच
शृणु देवी प्रवक्ष्यामी मङ्गलाया: स्तवं शुभम् ।
ग्रहशान्तिकरं दिव्यं यदुक्तं सिद्धवासरे ।। २ ।।
मङ्गला मङ्गलाचारा मङ्गलोदयकारिणी ।
चन्द्रप्रसादजननी चन्द्रमाता कृशोदरी ।। ३ ।।
चन्द्रमण्डलमध्यस्था चन्द्रायुतसमप्रभा ।
शीलता श्वेतवर्णा च श्वेताम्बरविधारिणी ।। ४ ।।
वरदायिनी शान्ता च स्मितस्या पद्मलोचना ।
त्रिनेत्रा च स्वयंभूता श्वेतपर्वतवासिनी ।। ५ ।।
दशाशान्तिकरी रम्या गोभूस्वर्णादिदायिनी ।
सामान्यान्तर्दशारुपा पञ्चत्रिशाद्विभेदत: ।। ६ ।।
एतानि शुभनामानि पठेत् प्रात: समुत्थित: ।
चक्रजन्यं दशाजन्यं पीडा तस्य विनश्यति ।
मङ्गलाया प्रसादेन सर्वं भवति शोभनम् ।। ७ ।।
।। इति सिद्धसावरतन्त्रे मंगलास्तोत्रम् सम्पूर्णम् ।।
 

।। अथ पिङ्गलास्तोत्रम् ।।

उत्तमाधममध्यानां प्राणिनां राज्यदायक: ।
सर्वस्वहारकाश्चैव तथा पञ्चत्वदायका: ।।१।।
ग्रहा लोके प्रसिद्धाश्च येऽधीना योगिनीमुखा: ।
तस्मात् प्रब्रू हि मे देव पिङ्गलाया स्तवं शुभम् ।
मार्तण्डप्रीतिजनकं पीडाशान्तिविधायकम् ।।२।।
श्रीशिव उवाच
शृणु षड्मुख तत्वेन कथ्यमानं मयाऽनघ ।
पिङ्गला सूर्यजननी जनसंमोहकारिणी ।।३।।
वराभयधरा सौम्या त्रिनेत्रा कञ्चलोचना ।
कुसुम्भवर्णा रक्ताक्षी सूर्यविम्बनिवासिनी ।।४।।
ग्रहपीडाप हरणी रक्तपद्माटवीरता ।
रक्ताम्बरा रक्तमान्या रक्तचन्दनचर्चिता ।।५।।
विल्वस्तनी विशालाक्षी मधुपानरता सदा ।
मधुप्रिया दशारुपा दशाधीशा ग्रहेश्वरी ।।६।।
मारकेशी महानन्दा परिपाकफलप्रदा ।
पिङ्गलायास्तवंह्येतत् महाशान्तिविधायकम् ।।७।।
ग्रहपीडापहरणं पठनात् सर्वकामदम् ।
यस्य संस्मरणादेव निहतस्तारको मया ।।८।।
विशेषत: कलियुगे प्रधाना योगिनीगणा ।
कृशरान्नैर्वाडवाँश्च कन्यकाँस्तर्पयेद् बुध: ।।९।।
पठेत् स्तोत्रं महेशान्या: पीडाशान्तिर्भविष्यति।
आयुरारोग्यमाप्नोति वित्तञ्च लभते बहु ।।१०।।
।। इति श्री रुद्रयामल शिवकुमारसंवादे तेजस्विनीकल्पे पिङ्गलास्तवं सम्पूर्णम् ।।

।। अथ धान्यास्तोत्रम् ।।

सनातनमुने सम्यक् शत्रुगेहस्थितस्य च ।
सुराचार्यदशायाश्च वद शान्तिविधिं क्वचित् ।।१।।
ग्रहा: मातृगणाधीना विज्ञेया विबुधर्षभै: ।
तस्माच्छृणु त्वंवक्ष्यामि धान्यास्तोत्र धनप्रदम् ।।२।।
धान्या धनप्रदा धान्यराशिस्था धान्यरुपिणी ।
धनदा धनरुपा च गुरोर्माता गुणेश्वरी ।।३।।
आचार्याणी कुलेशानी दशाचक्रनिवासिनी ।
द्विभुजा धर्मरुपा च वराभयविधारिणी ।।४।।
तप्तकाञ्चनवर्णा च त्र्याक्षा पीताम्बरावृता ।
महाजनैश्चाञ्जलिपुटैर्मुक्तैर्लाजै: प्रपूरिता ।।५।।
दशाचक्रगता देवी मोदिनी वीरनायिका ।
वृन्दारकसमूहैश्छ वन्दिता भुवनेश्वरी ।।६।।
इति धान्यास्तवं दिव्यं पठेन्नित्यमनन्यधी ।
तस्य नश्यन्ति गुरुजा पीडा योगिनीसम्भवा: ।।७।।
पुत्रं पौत्रं धनं धान्यं लभते च न संशय: ।
बातपित्तादिजा पीडा नश्यते पाठमात्रत: ।।८।।
ग्रहभूतपिशाचाश्च डाकिनीशाकिनीगणा: ।
ब्रह्मराक्षसवेताला नागगन्धर्वमातर: ।।
छायां तस्य न लङ्घन्ति का वार्ताग्रहणस्यतु ।।९।।
।। इति श्रीस्कन्दपुराणे रेवाखण्डे धान्यास्तोत्रं सम्पूर्णम् ।।


।। अथ भ्रामरीस्तोत्रम् ।।

श्रीभूरुवाच
कथं भ्रामरिजा पीडा नश्यते स्मृतिमात्रत: ।
भारद्वाजमुने ब्रूहि यदि तेऽनुग्रहो महि ।।१।।
श्रीभारद्वाज उवाच
कुमारीणां पूजनैश्च तथा ब्राह्मणतर्पणै: ।
हवनैश्च सिताज्यादिदानै: सक्षौद्रकीटजै: ।।२।।
अकिञ्चनानां मर्त्यानां जपैश्चैव विशेषत: ।
सर्वेषां स्तोत्रपठनाद् दुष्टदोषो विनश्यति ।।३।।
चत्वारिंशतिभेदेन अन्तर्व्यन्तरजा दशा ।
सूचिता मङ्गलेनाऽथ दुष्टदोषो गमिष्यति ।।४।।
तस्माच्छान्तिकरं स्तोत्रं शृणु सर्वाङ्गसुन्दरी ।
द्विभुजा भ्रामरी श्यामा वरखट्वाङ्गधारिणी ।।५।।
भ्राममाणा दशामध्ये विद्रुमाभा त्रिलोचना ।
रक्ताम्बरा रक्तवर्णा रक्तमाल्यानुलेपना ।।६।।
रक्तनेत्रनखा रक्तरसना रक्तदन्तिका ।
भ्रमहन्त्री भक्तिलभ्या मनसोद्वेगकारिणी ।।७।।
योगिनीवृदमध्यस्था भौममाता यशस्विनी ।
भयदा भयहा दुर्गाष्टवीभ्रमणदायिनी ।।८।।
द्विसहस्त्रबिभेदेन ज्योतिश्चक्रनिवासीनी ।
कालिका कामदा काली कमनीयभुजेक्षणा ।।९।।
कान्तारवासिनी कान्ता घृतोदधिनिवासिनी ।
माक्षीकोदधिसंमग्ना यवपर्वतगामिनी ।।१०।।
शर्करागिरिसँल्लीना कृशरान्नबिभोजिनी ।
खेटा खेटानुगा साध्वी खेटपीडाविभञ्जनी ।।११।।
इति ते कथितं स्तोत्रं सर्वसिद्धिप्रवर्तकम् ।
यस्याऽनुष्ठानमात्रेण नश्यते खेटजं भयम् ।।१२।।
योगिनीजं दशादोषं नश्यतेऽत्र न संशय: ।
सत्यंसत्यं पुन: सत्यं न मिथ्यावादिनो वयम् ।।१३।।
।। इति सूतसंहितायां भूमिभारद्वाजसंवादे भ्रामरीस्तोत्रं संपूरणम् ।।


।। अथ भद्रिकास्तोत्रम् ।।

स्कन्द उवाच
भद्रया: स्तवनं ब्रूहि यत् त्वया सूचितं पूरा ।
तस्य कि ब्रूही में नाथ फलाफल सविस्तरम् ।।१।।
शिव उवाच
नारसिंहे महायुद्धे मया शरभरुपिणा ।
स्तुता सा भदृकादेवी प्रादुर्भूता मितप्रभा ।।२।।
स्तोत्रं तच्चाऽत्र वक्ष्यामि शृणु तब नीलकण्ठज ।
भदृका भद्रदा भद्रा भवरोगविदारिणी ।।३।।
भक्तीप्रिया भक्तिगम्या द्विभुजोत्पलधारिणी ।
बुधस्य जननी बोधा बुधरुपा पतिब्रता ।।४।।
भार्गवी लोकजननी भक्ताभीष्टफलप्रदा ।
भाविनी भवरोगघ्नी भुवनेश्वरपूजिता ।।५।।
भारती भरतेशाना ग्रहमाता हरेश्वरी ।
दशारुपाऽन्तरदशारुपा व्यन्तररुपिणी ।।६।।
प्राणान्तरस्वरुपा च मातृका चक्ररुपिणी ।
संग्रामे जयदा काली सर्वत्र सुखदायिनी ।।७।।
इति स्तुता महादेवी मया शरभरुपिणी ।
वर दत्वा गता साऽपि भदृका भद्रदायिनी ।
तस्या प्रसादत: प्राप्तं संग्रामे जयमुत्तमम् ।।८।।
इदं मया कृते स्तोत्रं ये पठिष्यन्ति मानवा: ।
तेषां तु ग्रहजा: पीडास्तथा मातृसमुद्भवा: ।।९।।
दशाश्चान्तरदशाजन्या लग्नगोचरवर्षजा: ।
विनश्यन्ति महासेन सत्यं सत्यं न संशय: ।।१०।।
।। इति ब्रह्माअयामले ब्रह्मवृक्षकल्पप्रसङ्गे शरभनृसिंहयुद्धे
शरभकृतभदृकास्तोत्रम संपूरणम् ।।



।। अथ उल्कास्तोत्रम ।।

वशिष्ठ उवाच
कथं दु:खे निमग्नेऽसि किमर्थं मलिनं मुखम् ।
ममाऽग्रे कथ्यतां दु:खमुपायां वच्मि साम्पृतम् ।।१।।
हरिश्चन्द्र उवाच
राज्यभ्रंशो महान् जातो धनानाशादिकं तत: ।
पत्न्यादीनां कथं लाभो युक्ति पूर्णं वद प्रभो ।।२।।
शृणु राजन् प्रवक्ष्यामि उल्कास्तोत्रं विपद्धरम् ।
रोगशोकादिहरणं सर्वसौभाग्यवर्धनम् ।।३।।
धारणं कुरु भो शिष्य उल्कादेव्या: प्रपूजनम् ।
स्तोत्रं च पठ्यतां वस्त विपत्तिं नाशयत्ययम् ।।४।।
ॐ अस्य श्री उल्कादेव्याया: स्तोत्रमन्त्रस्य इत्यपि ।
ऋषि रुद्र: समाख्यात: वृहतीछन्द उच्यते ।।५।।
उल्का बिजं च ह्रीं शक्ति: क्रीं अं च इति कीलकम् ।
ममाधिदु:खशान्त्यर्थं विनियोग: प्रकीर्तित: ।।६।।
उल्काया मूलमन्त्रोऽयं मम रोगं विनाशय ।
जगद्धात्री जगन्माता अविशूक्तविनाशिनी ।।७।।
मन्दमाता विशालाक्षी योगिनीगणचारिणी ।
तारिणी सर्वदु:खानां नाशिनी रिपुघातिनी ।।८।।
ज्ञानदात्री मोक्षकरी सिद्धिदा सौख्यदा सदा ।
दुष्टहन्त्री महामाया सर्वारिष्टप्रणाशिनी ।।९।।
भवदु:खहरी सौम्या दुष्टग्रहविमर्दिनी ।
छायारुपधरी पूर्णा पद्मा पद्मावती शिवा ।।१०।।
वडवारुपिणी गुह्या गुह्यशक्ति: पराऽपरा ।
वागीश्वरी वरा भद्रा भवानी भूतनाशिनी ।।११।।
भूतिदा रोगहन्त्री च ओंकारबीजरुपिणी ।
अर्पणा गिरिजा काली शशानालयवासिनी ।।१२।।
शिवप्रिया महाचण्डी चण्डेश्वरसुपूजिता ।
इत्येतत्परमं गुह्यं उल्कादेव्या: स्तवं शिवम् ।।१३।।
आधिव्याधिहरं पुण्यं तृषु लोकेषु दुर्लभं ।
ग्रहदोष विनाशाय उल्कास्तोत्रं पठेन्नर: ।।१४।।
अभक्ताय निन्दकाय क्रूराय भेषधारिणे ।
जपालस्याय नो दद्यात् सर्वस्व सम्प्रदायिने ।।१५।।
गुरुभक्ताय शान्ताय देशभक्तिपराय च ।
देयं च स्तोत्रराजञ्च सत्यं सत्यं न संशय: ।।१६।।
।। इति श्रीमेरुआगमे कैलाशखण्डे उल्कादेव्याया: स्तोत्रं संपूर्णम् ।।


।। अथ सिद्धास्तोत्रम् ।।

श्रीसूर्य उवाच
शृणु साम्य महावाहो सिद्धास्तोत्रमनुत्तमम् ।
विरुद्धस्याऽसुरगुरो: पीडाशान्तिविधायकम् ।।१।।
योगिनीसिद्धिदा सिद्धा मन्त्रसिद्धिस्वरुपिणी ।
तपस: सिद्धिरुपा च दयारुपा क्षमान्विता ।।२।।
ऋद्धिरुपा शान्तिरुपा मेधारुपा तपस्विनी ।
पद्महस्ता मद्मनेत्रा शुक्रमाता: महेश्वरी ।।३।।
वस्त्रदा धनदात्री च राज्यदा सुखरुपिणी ।
शारदा च रमा काली प्रज्ञासागररुपिणी ।।४।।
सिद्धेश्वरी सिद्धिविद्या सिद्धिलक्ष्मीर्मतङ्गजा ।
शुक्लवर्णा स्वेतवस्त्रा श्वेतमाल्यानुलेपना ।।५।।
श्वेतपर्वतसंकाशा सुश्वेतस्तनमण्डला ।
कर्पूरराशिमध्यस्था शुक्रमण्डलवासिनी ।।६।।
कृशरान्नप्रिया साध्वी स्वेतवस्त्रा प्रियंवदा ।
कन्याशरीरगा रामा विप्रदेहविचारिणी ।।७।।
चित्रा हस्ता च सुभगा परमान्नप्रिया सदा ।।
दशास्वरुपा नक्षत्रा रुपाऽन्तर्यामिरुपिणी ।।८।।
इति ते कथितं वत्स सिद्धास्तोत्रमनुत्तमम् ।
पठनात् पठनाद्वाऽपि सर्वारिष्ट प्रशान्तये ।।९।।
ग्रहजन्यं दशाजन्यं चक्रजं भूतसम्भवम् ।
पिशाचचौरगन्धर्वपूतनामातृसम्भवम् ।।१०।।
अकालमृत्युरोगादिमहोत्पातादि संकटे ।
दोषं विनाशमाप्नोति सत्यं सत्यं न संशय: ।।११।।
।। इति श्रीशाम्बपुराणे सिद्धास्तोत्रम् संपूर्णम् ।।

।। अथ संकटास्तोत्रम् ।।

नारद उवाच
जैगीषव्य मुनिश्रेष्ठ सर्वज्ञसुखदायक ।
आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादत: ।।१।।
न तृप्तिमधिगच्छामि तब वाकमृतेन च ।
वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ।।२।।
इति तस्य वच: श्रुत्वा जैगीषव्योऽब्रवित् तत: ।
संकष्टनाशनं स्तोत्रम् शृणु देवर्षिसत्तम ।।३।।
द्वापरे तु पुरवृते भ्रष्टराज्यो युधिष्ठिर: ।
भ्रातृभि: सहितो राज्यनिर्वेदं परमम् गत: ।।४।।
तदानीं तु तत: काशीं पुरीं यातो महामुनि: ।
मार्कण्डेय इति ख्यात: सह शिष्यैर्महायशा ।।५।।
तं दृष्ट्वा तु समुत्थाय प्रणिपत्य सुपूजित: ।
किमर्थ म्लानवदन एतत् त्वं मां निवेदय ।।६।।
युधिष्ठिर उवाछ
संकटं मे महत् प्राप्तमेतादृग्वदनं तत: ।
उतन्निवारणोपायं किञ्चिद् ब्रू हि मुने मम ।।७।।
मार्कण्डेय उवाच
आनन्दकानने देवी संकटानाम विश्रुता ।
वीरेश्वरोत्तरे भागे पूर्वे चन्द्रेश्वरस्य च ।।८।।
शृणु नामाष्टकं तस्या: सर्वसिद्धिकरं नृणाम् ।
संकटा प्रथमं नाम द्वितीयं विजया तथा ।।९।।
तृतीयं कामना प्रोक्तं चतुर्थं दु:खहारिणी ।
शावर्णी पंचमं नाम षष्ठंकात्यायनी तथा ।।१०।।
सप्तमं भीमनयना सर्वरोगहराऽष्टमम् ।
नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वित: ।।११।।
य: पठेत्पाठयेद् वाऽपि नरो मुच्येत संकटात् ।
इत्युक्त्वा तु नरश्रेष्ठमृषिर्वाराणसीं ययौ ।।१२।।
इति तस्य वच: श्रुत्वा नारदो हर्षनिर्भर: ।
तत: संपूज्य तां देवीं वीरेश्वरसमन्विताम् ।।१३।।
भुजैस्तु दशभिर्युक्तां लोचनत्रयभूषिताम् ।
मालाकमण्डलुयुतां पद्मशंखगदायुताम् ।।१४।।
त्रिशूलडमरुधरां खड्गचर्मविभूषिताम् ।
वरदाभयहस्तां तां प्रणम्य विधिनन्दन ।।१५।।
वारत्रयं गृहीत्वा तु ततो विष्णुपुरं ययौ ।
एतत् स्तोत्रस्य पठनं पुत्रपौत्रविवर्धनं ।।१६।।
संकष्टनाशनं चैव त्रिषु लोकेषु विश्रुतम् ।
गोपनीयं प्रयत्नेन महावन्ध्याप्रसूतिकृत् ।।१७ ।।
।। इति श्रीपद्मपुराणे संकटाष्टकं संपूर्णम् ।।


।। अथ मुन्थादशास्तोत्रम् ।।

कैलाशं शिखरासीनं देवदेवं जगद्गुरुम् ।
पार्वती प्रणतो भूत्वा वचनं समभाषितम् ।।१।।
श्रीपार्वत्युवाच
भगवान् सर्वधर्मज्ञ सर्वशत्रुविमर्दनम् ।
यस्मिन् वर्षे व्याधिभयं मुन्थाहा कुरुते यदि ।।
केनोपायेन शान्ति: स्यात् तद् वदस्व सुरेश्वर ।।२।।
श्रीमहादेव उवाच
अस्तहि मुन्थहा देव्याश्चाष्टकं नाम सिद्धिदम् ।
यस्य विज्ञानमात्रेण बहवो निर्भयङ्गता ।।३।।
मुन्थहा प्रथमं नाम द्वितीय कीर्तिवर्धिनी ।
तृतीयं देवजननी चतुर्थं माधवप्रिया ।।४।।
पंचमं भयहन्त्री च षष्ठं विश्वेश्वरी तथा ।
सप्तमं कलुषघ्नी च वरदा चाऽष्टमं तथा ।।५।।
इत्येतेर्नामभिर्देवी प्रत्यहं पूजिता यदि ।
तस्य पीडाभयं नाऽस्ति सत्यं सत्यं वदाम्यहम् ।।१६।।
यज्ञात्वा निर्जरैर्देवै: सर्वे दानवराक्षशा: ।
निहता: समरे देवि तस्मात्मुन्थां सदा जपेत् ।।१७।।
राज्यदां भोग्यदां श्रीदां पुत्रदां कीर्तिदा सदा ।
नामान्येतानि मुन्थाया: पठेन्नित्य महेश्वरी ।।१८।।
।। मुन्थास्तोत्रं समाप्तम् ।।
🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱🔱

🕉️देव्यपराधक्षमापनस्तोत्रम्🕉️

न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो, न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।

न जाने मुद्रास्ते तदपि च न जाने विलपनं- परं जाने मातस्त्वदनुसरणं क्लेशहरणम ॥१॥

विधेरज्ञानेन द्रविणविरहेणालसतया-विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्। तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः- परं तेषां मध्ये विरलतरलोऽहं तव सुतः। मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे-कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥

जगन्मातर्मातस्तव चरणसेवा न रचिता- न वा दत्तं देवि द्रविणमपि भूयस्तव मया। तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥

परित्यक्ता देवा विविधविधसेवाकुलतया- मया पच्चाशीतेरधिकमपनीते तु वयसि। इदानीं चेन्मातस्तव यदि कृपा नापि भविता- निरालम्बो लम्बोदरजननि कं यामि शरणम ॥५॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा- निरातङ्को रङ्को विहरति चिरं कोटिकनकैः। तवापर्णे कर्णे विशति मनुवर्णे फलमिदं-जनः को जानीते जननि जपनीयं जपविधौ ॥६॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो- जटाधारी कण्ठे भुजगपतिहारी पशुपतिः। कपाली भूतेशो भजति जगदीशैकपदवीं-भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम ॥७॥

न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे- न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः। अतस्त्वां संयाचे जननि जननं यातु मम वै- मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥

नाराधितासि विधिना विविधोपचारैः किं रुक्षचिन्तनपरैर्न कृतं वचोभिः। श्यामे त्वमेव यदि किञ्चन मय्यनाथे, धत्से कृपामुचितमम्ब परं तवैव ॥९॥

आपत्सु मग्नः स्मरणं त्वदीयं, करोमि दुर्गे करुणार्णवेशि। नैतच्छठत्वं मम भावयेथाः क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥

जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि ।अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम ॥११॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि। एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥ 

श्रीमच्छङ्कराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम् 

🕉️श्री चतुश्लोकी भागवत 🕉️
श्री भगवानुवाच :-
ज्ञानं परम गुह्यं मे यद्विज्ञानसमन्वितम् ।
सरहस्यं तदङ्गं च गृृृृहाण गदितं मया ।। १।।
यावानहं यथाभावो यद्रुप गुणकर्मक: ।
तथैव तत्वविज्ञानमस्तु ते मदनुग्रहात् ।।२।।
अहमेवा समेवाग्रे नान्यद्यत्सदसत्परम् ।
पश्चादहं यदेतच्च योवशिष्येत सोsस्म्यहम् ।। ३।।
ऋतेर्थं यत्प्रतीयेत न प्रतियेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाsभासो यतातम: ।।४।।
यथा महान्ति भूतानि भूतेषुच्चावेचेष्वनु ।
प्रविष्टान्य प्रविष्टानि तथातेषु नतेष्वहम् ।।५।।
एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाssत्मन: ।
अन्वयव्यतिरेकाभ्यां यस्यात्सर्वत्र सर्वदा ।।६।।
एतन्मतं समातिष्ठ परमेण समाधिना ।
भवान् कल्पविकल्पेषु न विमुह्यतिकर्हिचित् ।।७।।
श्रीमद्भागवते महापुराणेsष्टादश साहस्त्र्यां सहितायां वैयासिक्यां द्वितीयस्कन्धे नवमोध्याये भगवद्ब्रम्हसंवादे चतुश्लोकीभागवतम् ।।
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

🕉️श्री सरस्वती स्तोत्र 🕉️
विद्याकी देवी सरस्वती
ब्रह्मोवाच :-
ह्रीँ ह्रीँ ह्रीँ ह्रृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे
भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे ।
पद्मे पद्योपविष्टे प्रणतजनमनो मोदसंपादयित्री
प्रोत्फुल्ल ज्ञानकूटे हरिजनदयिते देवी संसारसारे ।।१ ।।
ऐँ ऐँ ऐँ इष्टमन्त्रे कमलभवमुखाम्भोजरुपे स्वरुपे
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैव सूक्ष्मे प्यविदितविभवे नापि विज्ञानरुपे
विश्वे विश्वान्तराले सुरवरनमिते निष्कले नित्य शुद्धे ।। २ ।।
ह्रीँ ह्रीँ ह्रीँ जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते
मातर्मातर्नमस्ते दह दह जडतां देही बुद्धी प्रशस्ताम् ।
विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे
मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ।। ३ ।।
ध्रीँ ध्रीँ ध्रीँ धारणाख्ये ध्रितिमतिनुतिभिर्नामभि:कीर्तनीये
नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे ।
पुन्येपुन्यप्रभावे हरिहरनमिते पुन्यतत्वे सुवर्णे
मन्त्रे मन्त्रार्थतत्वे मतिमतिमतिदे माधवप्रीतिनादे ।। ४ ।।

ॐ ह्रीं क्लीं श्रीं सरस्वत्यै नम:
ह्रीँ क्ष्रीँ ध्रीँ ह्रीँ स्वरुपे दह दह दुरितं पुस्तकव्यग्रहस्ते
सन्तुष्टाकारचित्ते स्मितमुखिसुभगे जंभनी:स्तंभविद्ये ।
मोहे मुग्धप्रबोधे मम कुरु कुमतिध्वान्तविध्वंसनित्ये
गीर्वाग्गौर्भारती त्वं कविवृषरसना सिद्धिदे सिद्धिसाध्ये ।। ५ ।।
सौँ सौँ सौँ शक्तिबीजे कमलभवमुखाम्भोजभूतस्वरुपे
रुपारुपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे ।
न स्थूले नैवसूक्ष्मे प्यविदितविभवे जाप्य विज्ञानतत्वे
विश्वे विश्वान्तराले सुरगणनमिते निष्कले नित्यसुद्धे ।। ६ ।।
स्तौमी त्वां त्वां च वन्दे भज मम रसनां मा कदाचित्त्यजेथा:
मा मे बुद्धिर्विरुद्धा भजतु न च मनो देवी मे जातु पापम् ।
मा मे दु:खं कदाचिद्विपदी च विषये मास्तु मे चाकुलत्वं
शास्त्रे वादे कवित्वे प्रसरतु मम धीर्मास्तु कुन्ठा कदाचित् ।। ७ ।।
इत्येतै:श्लोकमुख्यै:प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो
देवीं वाचस्पतेरप्यतिमती विभवो वाक्पटुर्नष्टपङ्क: ।
सस्यादिष्टार्थलाभ: सुतमिव सततं पाति तं सा च देवी
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमस्तं प्रयाति ।। 

🕉️श्री सूर्यमण्डल स्तोत्र🕉️

नम: सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे ।

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥
यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥

यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावनमुक्तिकोविदम् ।
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥
यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् ।
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥
यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥
यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् ।
प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥
यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥
यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥
यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।
यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥
यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् ।
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥
यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥
यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।
तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥
मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः ।
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३ ॥
 श्रीमदादित्यहृदये मण्डलात्मकं स्तोत्रं संपूर्णम्

🕉️श्री अन्नपूर्णा स्तोत्रम्🕉️
नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी
निर्धूताखिलघोरपावनकरी प्रत्यक्षमाहेश्वरी ।
प्रालेयाचलवंशपावनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१॥
नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी
मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी ।
काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥२॥
योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी
चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी ।
सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥३॥
कैलासाचलकन्दरालयकरी गौरी उमा शङ्करी
कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी ।
मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥४॥
दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी
लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी ।
श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥५॥
उर्वीसर्वजनेश्वरी भगवती मातान्नपूर्णेश्वरी
वेणीनीलसमानकुन्तलहरी नित्यान्नदानेश्वरी ।
सर्वानन्दकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥६॥
आदिक्षान्तसमस्तवर्णनकरी शम्भोस्त्रिभावाकरी
काश्मीरात्रिजलेश्वरी त्रिलहरी नित्याङ्कुरा शर्वरी ।
कामाकाङ्क्षकरी जनोदयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥७॥
देवी सर्वविचित्ररत्नरचिता दाक्षायणी सुन्दरी
वामं स्वादुपयोधरप्रियकरी सौभाग्यमाहेश्वरी ।
भक्ताभीष्टकरी सदा शुभकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥८॥
चन्द्रार्कानलकोटिकोटिसदृशा चन्द्रांशुबिम्बाधरी
चन्द्रार्काग्निसमानकुन्तलधरी चन्द्रार्कवर्णेश्वरी ।
मालापुस्तकपाशासाङ्कुशधरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥९॥
क्षत्रत्राणकरी महाऽभयकरी माता कृपासागरी
साक्षान्मोक्षकरी सदा शिवकरी विश्वेश्वरश्रीधरी ।
दक्षाक्रन्दकरी निरामयकरी काशीपुराधीश्वरी
भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी ॥१०॥
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।
ज्ञानवैराग्यसिद्ध्यर्थं भिक्षां देहि च पार्वति ॥११॥
माता च पार्वती देवी पिता देवो महेश्वरः ।
बान्धवाः शिवभक्ताश्च स्वदेशो भुवनत्रयम् ॥१२॥
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
ग्रहशान्तिको लागि केही सरल उपाय:
शाकाहारी हुनु, मंगलबार हुनुमानको दर्शन तथा हनुमानचालिसा पाठ गर्नु, शनिबार पिपलमा जल चढाउनु,
शनिबार भैरव, वटुक भैरव वा संकटा मन्दिरको दर्शन गर्नु,
आइतबार कपालमा तोरी/सर्स्युको तेल नलाउनु,
झुठो नबोल्नु, योगि, महात्मा तथा गरिब असहायको सहयोग गर्नु, साधु महात्मा तथा मान्यजनले भनेको मान्नु,
देवता, गुरु र  ब्राम्हणको आदर भाव गर्नु,
यज्ञ होम आदिको दर्शन गर्नु एवं मन शुद्ध राख्नु,
जप तथा दानमा मन दिनु आदि

"देवब्राम्हण वन्दनात् गुरुवच: संपादनात्प्रत्यहं
साधूनामपि भाषणा श्रुतिसुखाच्श्रेय: कथाकर्णनात् ।
होमादध्वर दर्शनाच्शूचिमनो भावाज्जपाद् दानतो
नो कुर्वन्ति कदाचिदेव पुरुषस्यैव ग्रहा: पीडनम् ।।"
हचुवाको भरमा राशिको औठी/रत्न लगाउनु भन्दा आफ्नो कुण्डली असल ज्योतिषलाई देखाएर ग्रह बिग्रिएको भए सोही अनुरुपको औठी विधिपूर्वक लगाउनाले पनि अरिष्ट नाश हुन्छ ।
वैदिक मन्त्रा:
सूर्य : ॐ आकृष्णेनरजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यञ्च । हिरण्ययेन सविता रथेना देवोयाति भुवनानिपश्यन् ।।
चन्द्र: ॐ इमं देवाSअसपत्न्यgसुवध्यं महते क्षत्राय महते ज्यैष्ठाय महते जानराज्यायेन्द्रस्यन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै विशSएष वोSमि राजा सोमोSस्माकं ब्राम्हणाना g राजा ।।
मंगल: ॐ अग्निर्मुर्द्धादिव: ककुत्पति:पृथिव्या Sअयम् । अपाgरेताgसिजिन्वति ।।
बुध: ॐ उद्बुध्यस्वाग्ने प्रतिजाग्रिहि त्वमिष्टापूर्त्ते सgस्रृजेथामयञ्च । अस्मिन्त्सधस्थे Sअध्युत्तरस्मिन् विश्वेदेवा यजमानश्च सिदत ।।
गुरू: ॐ बृहस्पते अतिSअदर्योSअर्हात द्युमद्विभाति क्रतुमज्जनेषु । यद्विदयच्छवस Sऋतप्रजा ततदस्मासु द्रविणं धेहि चित्रम् ।।
शुक्र: ॐ अन्नात् परिश्रुतो रसंब्रम्हणा व्यपिवत् क्षत्रंपय: सोमं प्रजापति: । ऋतेन सत्यमिन्द्रियं विपानgशुक्रमन्धसSइन्द्रस्येन्द्रियमिदं पयोSमृतं मधु ।।
शनि: ॐ शन्नोदेविरभिष्टयSआपो भवन्तुपीतये सन्ज्योरभिस्त्रवन्तुन: ।।
राहु: ॐ कयानस्चित्रSआभुवदुति सदा वृध: सखा । कयाशचिष्टया वृता।
केतु: ॐ केतुं कृण्वन्न केतवे पेशो मर्याSअपेससे । समुषद्भिरजायथा ।।
नवग्रह तान्त्रिक जपमन्त्र :
ॐ घृणि सूर्याय नम: (७ हजार)
ॐ सों सोमाय नम: (११ हजार)
ॐ अं अंगारकाय नम: (७ हजार)
ॐ बुं बुधाय नम: (८ हजार)
ॐ बृं बृहस्पतये नम: (१० हजार)
ॐ शुं शुक्राय नम: (१६ हजार)
ॐ शं शनैश्चराय नम: (२३ हजार)
ॐ रां राहवे नम: (१८ हजार)
ॐ कें केतवे नम: (१७ हजार)
योगिनी जप मन्त्र:
मंगला: ॐ ह्रीं मंगले मंगलाय स्वाहा
पिंगला: ॐ ग्लौ पिंगले वैरिकारिणी प्रसीद फट् स्वाहा
धान्या: ॐ श्री धनदे धान्ये स्वाहा
भ्रामरी: ॐ भ्रामरी जगतामधीश्वरी भ्रामरी क्लीं स्वाहा
भद्रिका: ॐ भद्रिके भद्रं देही अभद्रं नाशाया स्वाहा
उल्का: ॐ उल्के मम रोग नाशय जृंभय स्वाहा
सिद्धा: ॐ ह्रीं सिद्धमे सर्वमानस साधय स्वाहा
संकटा: ॐ ह्रीं संकटे मम रोग नाशय स्वाहा
महामृत्युञ्जय मन्त्र: ॐ हौ  जुंस: भूर्भुव: स्व: त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनं । उर्वारुकमिवबन्धनान्मृत्योर्मुक्षियमाSमृतात् स: जूँ ॐ हौ ॐ ।। (११ हजार)

🕉️आदित्यहृदय स्तोत्र 🕉️

विनियोग: ॐ अस्य आदित्य हृदयस्तोत्रस्यागस्त्यऋषिरनुष्टुपछन्दः, आदित्यहृदयभूतो भगवान् ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्मविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः।

ऋष्यादिन्यास: ॐ अगस्त्यऋषये नमः, शिरसि। अनुष्टुपछन्दसे नमः, मुखे। आदित्यहृदयभूतब्रह्मदेवतायै नमः हृदि। ॐ बीजाय नमः, गुह्ये। रश्मिमते शक्तये नमः, पादयो:। ॐ तत्सवितुरित्यादिगायत्रीकीलकाय नमः नाभौ।

करन्यास: ॐ रश्मिमते अंगुष्ठाभ्यां नमः। ॐ समुद्यते तर्जनीभ्यां नमः। ॐ देवासुरनमस्कृताय मध्यमाभ्यां नमः। ॐ विवस्‍वते अनामिकाभ्यां नमः। ॐ भास्कराय कनिष्ठिकाभ्यां नमः। ॐ भुवनेश्वराय करतलकरपृष्ठाभ्यां नमः।

हृदयादि अंगन्यास: ॐ रश्मिमते हृदयाय नमः। ॐ समुद्यते शिरसे स्वाहा। ॐ देवासुरनमस्कृताय शिखायै वषट्। ॐ विवस्वते कवचाय हुम्। ॐ भास्कराय नेत्रत्रयाय वौषट्। ॐ भुवनेश्वराय अस्त्राय फट्।

आदित्यहृदय स्तोत्र

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌ ।

रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌ ॥१

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌ ।

उपगम्याब्रवीद् राममगस्त्यो भगवांस्तदा ॥२

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌ ।

येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे ॥३

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌ ।

जयावहं जपं नित्यमक्षयं परमं शिवम्‌ ॥४

सर्वमंगलमागल्यं सर्वपापप्रणाशनम्‌ ।

चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम्‌ ॥५

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम्‌ ।

पुजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌ ॥६

सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावन: ।

एष देवासुरगणांल्लोकान्‌ पाति गभस्तिभि: ॥७

एष ब्रह्मा च विष्णुश्च शिव: स्कन्द: प्रजापति: ।

महेन्द्रो धनद: कालो यम: सोमो ह्यापां पतिः ॥८

पितरो वसव: साध्या अश्विनौ मरुतो मनु: ।

वायुर्वहिन: प्रजा प्राण ऋतुकर्ता प्रभाकर: ॥९

आदित्य: सविता सूर्य: खग: पूषा गभस्तिमान्‌ ।

सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकर: ॥१०

हरिदश्व: सहस्त्रार्चि: सप्तसप्तिर्मरीचिमान्‌ ।

तिमिरोन्मथन: शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌ ॥११

हिरण्यगर्भ: शिशिरस्तपनोऽहस्करो रवि: ।

अग्निगर्भोऽदिते: पुत्रः शंखः शिशिरनाशन: ॥१२

व्योमनाथस्तमोभेदी ऋग्यजु:सामपारग: ।

घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः ॥१३

आतपी मण्डली मृत्यु: पिगंल: सर्वतापन:।

कविर्विश्वो महातेजा: रक्त:सर्वभवोद्भव: ॥१४

नक्षत्रग्रहताराणामधिपो विश्वभावन: ।

तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते ॥१५

नम: पूर्वाय गिरये पश्चिमायाद्रये नम: ।

ज्योतिर्गणानां पतये दिनाधिपतये नम: ॥१६

जयाय जयभद्राय हर्यश्वाय नमो नम: ।

नमो नम: सहस्त्रांशो आदित्याय नमो नम: ।।१७

नम उग्राय वीराय सारंगाय नमो नम: ।

नम: पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८

ब्रह्मेशानाच्युतेशाय सुरायादित्यवर्चसे ।

भास्वते सर्वभक्षाय रौद्राय वपुषे नम: ॥१९

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने ।

कृतघ्नघ्नाय देवाय ज्योतिषां पतये नम: ॥२०

तप्तचामीकराभाय हरये विश्वकर्मणे ।

नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१

नाशयत्येष वै भूतं तमेष सृजति प्रभु: ।

पायत्येष तपत्येष वर्षत्येष गभस्तिभि: ॥२२

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठित: ।

एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम्‌ ।।२३

देवाश्च क्रतवश्चैव क्रतुनां फलमेव च ।

यानि कृत्यानि लोकेषु सर्वेषु परमं प्रभु: ॥२४

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।

कीर्तयन्‌ पुरुष: कश्चिन्नावसीदति राघव ॥२५

पूजयस्वैनमेकाग्रो देवदेवं जगप्ततिम्‌ ।

एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥२६

अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जहिष्यसि ।

एवमुक्ता ततोऽगस्त्यो जगाम स यथागतम्‌ ॥२७

एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्‌ तदा 

धारयामास सुप्रीतो राघव प्रयतात्मवान्‌ ॥२८

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌ ।

त्रिराचम्य शूचिर्भूत्वा धनुरादाय वीर्यवान्‌ ॥२९

रावणं प्रेक्ष्य हृष्टात्मा जयार्थं समुपागतम्‌ ।

सर्वयत्नेन महता वृतस्तस्य वधेऽभवत्‌ ॥३०

अथ रविरवदन्निरीक्ष्य रामं मुदितमना: परमं प्रहृष्यमाण: ।

निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१

श्री वाल्मीकीये रामायणे युद्धकाण्डे अगस्‍त्‍यप्रोक्‍तमादित्‍यहृदयस्‍तोत्रं सम्‍पूर्णम् ।। 🕉️

सूर्य दानवस्तु: माणिक्य (मणि), रातो कपडा, कमलफूल, रक्तचन्दन, सुन, तामा, गोधुम, गुड, केशर, मुगा
चन्द्र दानवस्तु: मोती, वंशपात्र, सेतो कपडा, स्वेतचन्दन, चाँदी, चावल, चिनी, कपूर, दही, कासको भाडोमा घ्यु आदि
मंगल (भौम) दानवस्तु: मुगा, मसुर, गोधुम, रक्तबस्त्र, रक्तचन्दन, गुड, सुन, तामा, केशर कस्तुरी आदि
बुध दानवस्तु:  पन्नारत्न, कास्यपात्र, हरियो कपडा, मुंग, गौ, सुबर्ण (सुन), हरियो फूल, कपूर, षट् रस भोजन आदि
गुरु दानवस्तु: पुष्पराज, पहेलो धान, पहेलो कपडा, सुन, घ्यु, पहेलो फूल फल, बेसार, घोडा, पुस्तक, मह, नून, छाता, जमिन, चिनी आदि
शुक्र दानवस्तु: हीरा, चामल, स्वेत चन्दन, सेतो कपडा, सेतोघोडा, घ्यु, चिनी, सेतोचित्र, गोधुम दही आदि
शनि दानवस्तु: निलम, तिल, माष, मसुर, फलाम, तेल, कालो कपडा, भैशी, कस्तुरी, सुन, कालोगाई आदि
राहु दानवस्तु: गोमेद, सप्तधान्य, निलो कपडा, कम्बल, तिल, तेल, फलाम, रत्न, तामा, अभ्रख, सुन आदि
केतु दानवस्तु: लहसुनीया, कम्बल, कस्तुरी, तिल , तेल, कालो फल, कालो कपडा, फलाम, बोको, हतियार (खुकुरी), सप्तधान्य आदि
“अकाले नैव कर्तव्यं दातुर्वैप्राणघातक” अर्थात बेला नमिलाइकन दान नगर्नु दिने र लिनेको प्राणघातक समेत हुनसक्छ ।
सूर्य र शुक्र : सूर्योदयमा दान गर्नु, मंगल र बुध : अपरान्नमा दान गर्नु, चन्द्र र गुरु : सन्ध्याकालमा दान गर्नु,शनि : मध्यान्नमा दान गर्नु, राहु र केतु : रात्रीकालमा दान गर्नु
(जबर्जस्ती दान नगर्नु, शुद्धमन र शक्ति अनुसार मात्र दान गर्नु गराउनु)
उपनिषद् सूची 
देहायका १०८ उपिनषदहरूको सूची मुक्तिक उपनिषदमा १:३०-३९ दिइएको छ । यी १०८ उपिनषदहरूहरूलाई निम्न बमोजिम वर्गीकरण गरिएको छ :-
१९ उपिनषद् शुक्ल यजुर्वेदमा | यिनको शान्तिपाठ पूर्णमदः बाट आरम्भ हुन्छ |
 ३२ उपिनषद कृष्ण यजुर्वेदमा |यीनको शान्तिपाठ सहनाभवतु बाट आरम्भ हुन्छ |
 १६ उपिनषद् सामवेदमा |यीनको शान्तिपाठ आप्यायन्तु बाट आरम्भ हुन्छ |
 ३१ उपिनषद् अथर्ववेदमा |यीनको शान्तिपाठ भद्रं कर्णेभिः बाट आरम्भ हुन्छ |
 १० उपिनषद् ऋग्वेदमा |यीनको शान्तिपाठ वण्मे मनिसबाट आरम्भ हुन्छ |
यी १०८ उपिनषद् वाहेक कतैकतै अन्य ४ उपिनषद्को पनि उल्लेख गरिएको पाइन्छ :  नारायणनृसिंहरामतापनी तथा गोपाल
१.ईश = शुक्ल यजुर्वेदमुख्य उपनिषद्
 २.केन उपनिषद् = साम वेदमुख्य उपनिषद्
 ३.कठ उपनिषद् = कृष्ण यजुर्वेदमुख्य उपनिषद्
 ४.प्रश्‍न उपनिषद् = अथर्व वेदमुख्य उपनिषद्
 ५.मुण्डक उपनिषद् = अथर्व वेदमुख्य उपनिषद्
 ६.माण्डुक्य उपनिषद् = अथर्व वेदमुख्य उपनिषद्
 ७.तैत्तिरीय उपनिषद् = कृष्ण यजुर्वेदमुख्य उपनिषद्
 ८.ऐतरेय उपनिषद् = ऋग् वेदमुख्य उपनिषद्
 ९.छान्दोग्य उपनिषद् = साम वेदमुख्य उपनिषद्
 १०.बृहदारण्यक उपनिषद् = शुक्ल यजुर्वेदमुख्य उपनिषद्
 ११.ब्रह्म उपनिषद् = कृष्ण यजुर्वेदसंन्यास उपनिषद्
 १२.कैवल्य उपनिषद् = कृष्ण यजुर्वेदशैव उपनिषद्
 १३.जाबाल उपनिषद् (यजुर्वेद) = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 १४.श्वेताश्वतर उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 १५.हंस उपनिषद् = शुक्ल यजुर्वेदयोग उपनिषद्
 १६.आरुणेय उपनिषद् = साम वेदसंन्यास उपनिषद्
 १७.गर्भ उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 १८.नारायण उपनिषद् = कृष्ण यजुर्वेदवैष्णव उपनिषद्
 १९.परमहंस उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 २०.अमृत-बिन्दु उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 २१.अमृत-नाद उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 २२.अथर्व-शिर उपनिषद् = अथर्व वेदशैव उपनिषद्
 २३.अथर्व-शिख उपनिषद् =अथर्व वेदशैव उपनिषद्
 २४.मैत्रायणि उपनिषद् = साम वेदसामान्य उपनिषद्
 २५.कौषीतकि उपनिषद् = ऋग् वेदसामान्य उपनिषद्
 २६.बृहज्जाबाल उपनिषद् = अथर्व वेदशैव उपनिषद्
 २७.नृसिंहतापनी उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 २८.कालाग्निरुद्र उपनिषद् = कृष्ण यजुर्वेदशैव उपनिषद्
 २९.मैत्रेयि उपनिषद् = साम वेदसंन्यास उपनिषद्
 ३०.सुबाल उपनिषद् = शुक्ल यजुर्वेदसामान्य उपनिषद्
 ३१.क्षुरिक उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ३२.मान्त्रिक उपनिषद् = शुक्ल यजुर्वेदसामान्य उपनिषद्
 ३३.सर्व-सार उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ३४.निरालम्ब उपनिषद् = शुक्ल यजुर्वेदसामान्य उपनिषद्
 ३५.शुक-रहस्य उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ३६.वज्रसूचि उपनिषद् = साम वेदसामान्य उपनिषद्
 ३७.तेजो-बिन्दु उपनिषद् = कृष्ण यजुर्वेदसंन्यास उपनिषद्
 ३८.नाद-बिन्दु उपनिषद् = ऋग् वेदयोग उपनिषद्
 ३९.ध्यानबिन्दु उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ४०.ब्रह्मविद्या उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ४१.योगतत्त्व उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ४२.आत्मबोध उपनिषद् = ऋग् वेदसामान्य उपनिषद्
 ४३.परिव्रात् उपनिषद् (नारदपरिव्राजक) = अथर्व वेदसंन्यास उपनिषद्
 ४४.त्रिषिखि उपनिषद् = शुक्ल यजुर्वेदयोग उपनिषद्
 ४५.सीता उपनिषद् = अथर्व वेदशाक्त उपनिषद्
 ४६.योगचूडामणि उपनिषद् = साम वेदयोग उपनिषद्
 ४७.निर्वाण उपनिषद् = ऋग् वेदसंन्यास उपनिषद्
 ४८.मण्डलब्राह्मण उपनिषद् = शुक्ल यजुर्वेदयोग उपनिषद्
 ४९.दक्षिणामूर्ति उपनिषद् = कृष्ण यजुर्वेदशैव उपनिषद्
 ५०.शरभ उपनिषद् = अथर्व वेदशैव उपनिषद्
 ५१.स्कन्द उपनिषद् (त्रिपाड्विभूटि) = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ५२.महानारायण उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 ५३.अद्वयतारक उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 ५४.रामरहस्य उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 ५५.रामतापणि उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 ५६.वासुदेव उपनिषद् = साम वेदवैष्णव उपनिषद्
 ५७.मुद्गल उपनिषद् = ऋग् वेदसामान्य उपनिषद्
 ५८.शाण्डिल्य उपनिषद् = अथर्व वेदयोग उपनिषद्
 ५९.पैंगल उपनिषद् = शुक्ल यजुर्वेदसामान्य उपनिषद्
 ६०.भिक्षुक उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 ६१.महत् उपनिषद् = साम वेदसामान्य उपनिषद्
 ६२.शारीरक उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ६३.योगशिखा उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ६४.तुरीयातीत उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 ६५.संन्यास उपनिषद् = साम वेदसंन्यास उपनिषद्
 ६६.परमहंस-परिव्राजक उपनिषद् = अथर्व वेदसंन्यास उपनिषद्
 ६७.अक्षमालिक उपनिषद् = ऋग् वेदशैव उपनिषद्
 ६८.अव्यक्त उपनिषद् = साम वेदवैष्णव उपनिषद्
 ६९.एकाक्षर उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ७०.अन्नपूर्ण उपनिषद् = अथर्व वेदशाक्त उपनिषद्
 ७१.सूर्य उपनिषद् = अथर्व वेदसामान्य उपनिषद्
 ७२.अक्षि उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ७३.अध्यात्मा उपनिषद् = शुक्ल यजुर्वेदसामान्य उपनिषद्
 ७४.कुण्डिक उपनिषद् = साम वेदसंन्यास उपनिषद्
 ७५.सावित्रि उपनिषद् = साम वेदसामान्य उपनिषद्
 ७६.आत्मा उपनिषद् = अथर्व वेदसामान्य उपनिषद्
 ७७.पाशुपत उपनिषद् = अथर्व वेदयोग उपनिषद्
 ७८.परब्रह्म उपनिषद् = अथर्व वेदसंन्यास उपनिषद्
 ७९.अवधूत उपनिषद् = कृष्ण यजुर्वेदसंन्यास उपनिषद्
 ८०.त्रिपुरातपनि उपनिषद् = अथर्व वेदशाक्त उपनिषद्
 ८१.देवि उपनिषद् = अथर्व वेदशाक्त उपनिषद्
 ८२.त्रिपुर उपनिषद् = ऋग् वेदशाक्त उपनिषद्
 ८३.कठरुद्र उपनिषद् = कृष्ण यजुर्वेदसंन्यास उपनिषद्
 ८४.भावन उपनिषद् = अथर्व वेदशाक्त उपनिषद्
 ८५.रुद्र-हृदय उपनिषद् = कृष्ण यजुर्वेदशैव उपनिषद्
 ८६.योग-कुण्डलिनि उपनिषद् = कृष्ण यजुर्वेदयोग उपनिषद्
 ८७.भस्म उपनिषद् = अथर्व वेदशैव उपनिषद्
 ८८.रुद्राक्ष उपनिषद् = साम वेदशैव उपनिषद्
 ८९.गणपति उपनिषद् = अथर्व वेदशैव उपनिषद्
 ९०.दर्शन उपनिषद् = साम वेदयोग उपनिषद्
 ९१.तारसार उपनिषद् = शुक्ल यजुर्वेदवैष्णव उपनिषद्
 ९२.महावाक्य उपनिषद् = अथर्व वेदयोग उपनिषद्
 ९३.पञ्च-ब्रह्म उपनिषद् = कृष्ण यजुर्वेदशैव उपनिषद्
 ९४.प्राणाग्नि-होत्र उपनिषद् = कृष्ण यजुर्वेदसामान्य उपनिषद्
 ९५.गोपाल-तपणि उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 ९६.कृष्ण उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 ९७.याज्ञवल्क्य उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 ९८.वराह उपनिषद् = कृष्ण यजुर्वेदसंन्यास उपनिषद्
 ९९.शात्यायनि उपनिषद् = शुक्ल यजुर्वेदसंन्यास उपनिषद्
 १००.हयग्रीव उपनिषद् (१००) = अथर्व वेदवैष्णव उपनिषद्
 १०१.दत्तात्रेय उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 १०२.गारुड उपनिषद् = अथर्व वेदवैष्णव उपनिषद्
 १०३.कलि-सण्टारण उपनिषद् = कृष्ण यजुर्वेदवैष्णव उपनिषद्
 १०४.जाबाल उपनिषद् (सामवेद) = साम वेदशैव उपनिषद्
 १०५.सौभाग्य उपनिषद् = ऋग् वेदशाक्त उपनिषद्
 १०६.सरस्वती-रहस्य उपनिषद् = कृष्ण यजुर्वेदशाक्त उपनिषद्
 १०७.बह्वृच उपनिषद् = ऋग् वेदशाक्त उपनिषद्
 १०८.मुक्तिक उपनिषद् (१०८) = शुक्ल यजुर्वेद

No comments:

Post a Comment